म्यान्मारदेशे शुक्रवासरे प्रचण्डभूकम्पस्य कारणेन भूमिः कम्पिता। थाईलैण्ड्-देशस्य राजधानी बैंकॉक्-नगरे म्यान्मार-देशे च एकस्य पश्चात् अन्यस्य भूकम्पयोः प्रभावेन भवनानि पतितानि। अस्मिन् भूकम्पस्य परिमाणं ७.७ रिक्टर् आसीत्। भूकम्पस्य केन्द्रं म्यान्मारदेशस्य सागाइङ्ग् आसीत्। म्यान्मारदेशस्य इरावाड्डी-नद्याः लोकप्रियः सेतुः अपि नष्ट:। चीनदेशस्य ताइवानदेशस्य च केषुचित् भागेषु भूकम्पाः अपि अनुभूताः। भारतस्य दिल्ली-बिहारे अपि भूकम्पाः अनुभूता:। उद्धारकर्मचारिभिः प्रदत्तानां विवरणानुसारम् अधुना यावत् मण्डले-नगरे २० जनाः, म्यान्मार-देशस्य टौगु-नगरे च ५ जनाः मृताः । यदा थाईलैण्ड्देशे द्वादशाधिकाः जनाः आहता: सन्ति। तथा ४३ जनाः अदृश्याः सन्ति।