Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उत्तराखण्डस्य गढ़वालमण्डले प्रचण्डवृष्ट्या: कारणात् चारधामयात्रा स्थगिता। बद्रीनाथ-विष्णुप्रयागराष्ट्रीयराजमार्गस्य समीपे भूस्खलनेन मार्गः अवरुद्धः अस्ति। उभयतः वाहनानां दीर्घाः पङ्क्तयः सन्ति। शनिवासरे (६ जुलै) जम्मू-कश्मीरे प्रचण्डवृष्ट्या अमरनाथयात्रा स्थगिता। असमस्य २९ मण्डलेषु जलप्रलयेन २३ लक्षं जनाः प्रभाविताः अभवन्। एतावता ५८ जनाः मृताः। २७ मण्डलेषु ५७७ आपत्सहायशिबिराणि स्थापितानि सन्ति। अस्मिन् ५ लक्षाधिकाः जनाः निवसन्ति। काजीरङ्गराष्ट्रियनिकुञ्जे अपि अनेके पशवः प्रभाविताः अभवन्। ११४ पशवः मृताः सन्ति। उत्तरप्रदेशे गत २४ घण्टासु वर्षासम्बद्धेषु घटनासु १३ जनानां मृत्युः अभवत्। विद्युत्प्रकोपेण द्वौ जनौ मृतौ। मुम्बईनगरस्य समीपस्थे थाणेमण्डले अतिवृष्ट्या वाशिन्दक्षेत्रे सृष्टिफार्मगृहं परितः जलं प्लावितम्। प्रायः १५० जनाः तत्र बद्धा: येषां उद्धरणकार्यं चलति। 

अद्यतनवार्ता

भारतम्

विश्वम्