राज्यपालेन सह विवादकाले मुख्यमन्त्री एम.के.स्टालिन तमिलनाडुविधानसभायां राज्यं स्वायत्तं कर्तुं प्रस्तावं स्थापितवान्। सः अवदत् यत् देशस्य स्वातन्त्र्यस्य ७५ वर्षाणि सम्पन्नानि सन्ति। अस्माकं देशे भिन्नभाषा-जाति-संस्कृति-अवलम्बिन: जनाः निवसन्ति। अस्माभिः सर्वैः एकत्र स्थातव्यम्। डॉ. अम्बेडकरः सर्वेषां रक्षणार्थं देशस्य राजनैतिक-प्रशासनिक-व्यवस्थां परिकल्पितवान्। राज्यस्य अधिकारस्य रक्षणार्थं केन्द्रराज्यसम्बन्धस्य उन्नयनार्थं च उच्चस्तरीयसमितिः निर्मितः अस्ति। अस्यां समित्यां पूर्वाधिकारी अशोकशेट्टी, एम.यू. नागराजन इत्यादयः जनाः तत्र सम्मिलिताः भविष्यन्ति। समितिः २०२६ जनवरीमासयावत् अन्तरिमप्रतिवेदनं प्रस्तौष्यति, यत्र पूर्णप्रतिवेदनं अनुशंसाः च वर्षद्वयेन अन्तः सर्वकाराय प्रस्तूयन्ते।