Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

इजरायलस्य विमानप्रहारेण विश्वस्य बृहत्तमस्य असर्वकारीयस्य हिजबुलसङ्घस्य प्रमुखः सैयदहसननसरुल्लाह: मारितः। शुक्रवासरे सायं बेरुत-नगरस्य दहियेक्षेत्रे सङ्घटनस्य मुख्यालये आक्रमणे नसरुल्लाह: मारितः, परन्तु शनिवासरे तस्य मृत्यो: पुष्टि: अभवत्। प्रप्रथमं इजरायलसेनया निवेदितं यत् 'आतङ्कवादीसङ्घटनस्य हिजबुलसङ्घस्य नेता मारित:, सः सम्पूर्णविश्वस्य कृते भयकारी' आसीत्। तदनन्तरं हिजबुलसङ्घः अपि स्वीकृतवान् यत् तस्य नेता नास्ति। नसरुल्लाहस्य वधः इरानदेशस्य तस्य मित्रराष्ट्रानां, संस्थानां च कृते महान् आघातः अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्