Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

मौनी अमावस्यायां ४० लक्षं भक्ताः वाराणसीं अयोध्यां च प्राप्तवन्तः। बुधवासरस्य अपराह्णपर्यन्तं प्रायः ३० लक्षं जनाः काशीनगरं प्राप्तवन्तः। गङ्गास्नानार्थं अधिकांशा: भक्ताः अस्सीघाट, तुलसीघाट, केदार घाट, दशश्वमेध, राजघाट इत्यत्र सन्ति । सर्वेषु घाटेषु अवरोधकानि स्थापितानि सन्ति। झारखण्ड-छत्तीसगढ-बिहार-मध्यप्रदेश-दक्षिणभारत-आदि-राज्येभ्यः सहस्रश: जनाः गङ्गानद्यां स्नानार्थं आगता: सन्ति। सार्धद्विलक्षाधिकाः भक्ताः कैन्ट् रेलस्थानके उपस्थिताः सन्ति। तस्मिन् एव काले १० लक्षं भक्ताः स्नानार्थं अयोध्यां प्राप्तवन्तः। अत्र द्रुतक्रियाबलं नियोजितम् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्