Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतेन अद्य महती सफलता प्राप्ता अस्ति । संयुक्तराष्ट्रेण मसूद-अजहरः वैश्विक-आतङ्की इति उद्घोषितः । स: पाकिस्तानस्य आतङ्कि-सङ्घटनस्य जैश-ए-मोहम्मद-सङ्घटनस्य नेता अस्ति। संयुक्तराष्ट्रस्य सुरक्षापरिषदा निर्णयोऽयं स्वीकृतः । जैश-ए-मोहम्मदसङ्घटनेन फरवरीमासे जातस्य पुलवामा-आक्रमणस्य दायित्वं स्वीकृतमासीत्। सङ्घटनमिदं समग्रे विश्वे नृशंसातङ्ककारणात् कुख्यातमस्ति । मसूदं वैश्विक-आतङ्किरूपेण उद्घोषयितुं संयुक्तराष्ट्रस्य सुरक्षासमित्याः सदस्यदेशाः सततं प्रयत्नरताः आसन् परन्तु चीनदेशः एतस्यां प्रक्रियायां बाधां जनयति स्म । दशवर्षेषु चीनदेशः चतुर्वारं स्वाधिकारस्य दुरुपयोगं कृत्वा मसूदं रक्षितवान् आसीत् । भारतस्य कूटनीतेः कारणात् चीनदेशस्य उपरि प्रभावं जनयितुं सफलः जातः । अन्ततो गत्वा चीनदेश: मसूदस्य प्रकरणे बाधितः अभवत् ।

अद्यतनवार्ता

भारतम्

विश्वम्