भारतस्य १४तमस्य प्रधानमन्त्रिण: अर्थशास्त्रिण: डॉ. मनमोहनसिंहस्य ९२तमे वर्षे गुरुवासरे रात्रौ दिल्लीनगरस्य एम्स् चिकित्सालये निधनं जातम्। पूर्वप्रधानमन्त्रिणः निधनानन्तरं सप्तदिनानां राष्ट्रियशोकस्य घोषणा सर्वकारेण कृता अस्ति। दलीयराजनीत्याः उपरि उत्तिष्ठन् न केवलं देशस्य प्रत्येकं दिग्गजनेता अपितु वैदेशिका: नेतारः अपि शुक्रवासरे मनमोहनसिंहाय श्रद्धाञ्जलिम् अर्पितवन्तः। ‘इतिहासः सर्वेषां सञ्चारमाध्यम-विपक्षाणां अपेक्षया ममोपरि दयालुः भविष्यति’ इति मनमोहनसिंहस्य कथनं सत्यं जातम् यत: पूर्वप्रधानमन्त्री यथा स्वदेशे विदेशे च स्मर्यते। आर्थिकसंशोधनार्थं भारतस्य विकासे च योगदानार्थं च तस्य महत्त्वपूर्णं योगदानमासीत्। मनमोहनसिंहः देशस्य प्रथमः सिक्खप्रधानमन्त्री चतुर्थः दीर्घकालीनः नेता च आसीत् ।