हिमाचलप्रदेशः विगतद्वादशघण्टाभ्यः वर्षाया:, हिमपातकारणेन च अन्धकार: व्याप्त: अस्ति। मनलीनगरस्य बहवः ग्रामाः अन्धकारे निमग्नाः सन्ति। एतदतिरिक्तं ४ दिनेभ्य: समीपस्थेषु क्षेत्रेषु अपि हिमपातः भवति। मनालीनगरे अद्यावधि प्रायः १ फिट्पर्यन्तं हिमपातः अभवत् । अनेकेषु मार्गेषु ग्राम्यक्षेत्रेषु च विद्युत्सेवा बाधिता अस्ति। एतेन सह परिवर्तनशीलस्य वातावरणस्य कारणेन तापमानस्य अपि न्यूनता अभवत्। मनलीनगरस्य सोलाङ्गनालानगरे २ तः ३ फिट्पर्यन्तं, अटलटनलरोहताङ्गनगरे च प्रायः ३.५ फिट्पर्यन्तं हिमपातः अभवत्। येन लेह-मनाली राजमार्गः पीहित:। निरन्तरं हिमपातप्रभावात् ग्राम्यक्षेत्रेषु विद्युत्प्रदायः बाधितः आसीत्। विभागेन अद्य अपि हिमपातस्य सम्भावना प्रकटिता अस्ति।