मध्यप्रदेशस्य धारजनपदे विद्युत्वितरके अग्निः प्रज्वलितः तेन कारणेन समीपस्थः एकः जनः जमूलखानः विद्युता प्रभावितः । विद्युत्प्रभावकारणात् सः जनः अचेतनः जातः । जनैः १०८ इति आपत्कालीनयानस्य आह्वानं कृतं परन्तु तद्यानं समयेन न प्राप्तम् । समस्यायाः निवारणाय जनैः पङ्केन जलेन च गर्ते सः स्थापितः । पङ्कस्य जलस्य च उपस्थितौ विद्युत्प्रवाहप्रभावः नष्टः भवति ।एतस्य प्रयोगेण शनैः शनैः सः चेतनवान् सञ्जातः । सः एतेन अनुभवसिद्धेन प्रयोगेण जमूलखानः रक्षितः ।