Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अधुना बङ्गालराज्यं हिंसायाः अग्नौ प्रज्वलितमस्ति। कोलकाताबलात्कारहत्याप्रकरणे विधिव्यवस्थायां प्रमादं कृत्वा ममता बनर्जी इत्यस्याः त्यागपत्रस्य आग्रहः भाजपद्वारा क्रियते। यस्य कारणात् बङ्गालभाजपानेतारः विरोधं कुर्वन्ति। मुख्यमन्त्री ममता बनर्जी बङ्गाल-तृणमूलकाङ्ग्रेसस्य तृणमूलविद्यार्थीपरिषदः २७ तमे स्थापनादिने उक्तवती यत्, 'विगतदिनेषु कोलकातानगरे महिलाप्रशिक्षुवैद्यायै न्यायं दापयितुं विशालप्रदर्शनानि भवन्ति। गतदिने छात्रै: कृतस्य विरोधस्य विरुद्धं जाताया: सर्वकारीयचेष्टाया: सन्दर्भे भाजपद्वारा बङ्गपिधानस्य घोषणा कृता आसीत्। अस्मिन् विषये भाजपा न्यायं न इच्छति, ते केवलं बङ्गस्य अपकीर्तिमिच्छति। मोदी पश्चिमबङ्गदेशे अग्निं ज्वालयति। यदि बङ्गदेशे अग्निं जनयति चेत् असम-पूर्वोत्तर-देहली-बिहार-झारखण्ड-ओडिशाराज्येषु अपि तथैव भविष्यति।' 

वक्तव्यास्य प्रचण्ड: विरोध: जात: मणिपुरस्य बिरेनसिंहस्य विरोधस्य अनन्तरम् उग्रप्रत्युत्तररूपेण असमस्य मुख्यमन्त्री सरमा उक्तवान् यत् दीदी! कथं भवत्या: साहसं पूर्वोत्तरराज्येभ्य: भर्त्सनं दातुम् ! अस्मान् रक्तनेत्रे मा दर्शय। असफलराजनीत्या भारतदहनं मा कुरु। भवत्या: विभाजनकारिणी भाषा न शोभते इति।

अद्यतनवार्ता

भारतम्

विश्वम्