महाकुम्भस्य प्रथमं स्नानं अद्य मकरसङ्क्रान्ते: अवसरे अभवत् यत्र ३.५ कोटिजना: अमृतस्नानं कृतवन्त:। एतेन सह मकरसङ्क्रान्तिपर्व समग्रे भारते उल्लासेन मन्यन्ते। गुजराते आकाशे (पतङ्ग)वाताटानाम् उड्डयनं क्रियते। अवसरेऽस्मिन् गृहराज्यमन्त्री अमितशाह: अहमदाबादनगरम् आगतवान् आसीत्। सर्वत्र पूजा-दानाधि धार्मिकविधय: क्रियते। तथैव राजस्थाने पतङ्गविमानपर्व अपि आचर्यते। जयपुरस्य परकोटास्थिते गोविन्ददेवजीमन्दिरे अद्य पतङ्गप्रदर्शनं स्थापितं अस्ति। भक्ताः अत्र दर्शनार्थं गच्छन्ति। तमिलनाडुदेशे पोङ्गल-उत्सवे गृहाणि रङ्गवल्लीभि: अलङ्कृतानि आसन्। वृषभधावनक्रीडा जल्लीकट्टू अपि आरब्धम् अस्ति। असमदेशे जनाः बिहुपर्वण: आचरणं कुर्वन्ति। पूर्वदिने उत्तरभारते पञ्जाबे लोहडी पर्व अपि सोल्लासं आचरितम्। दिनमिदं उत्तरभारते खिचडीरूपेण, कश्मीरप्रदेशे शिशुरसंक्रान्तिरूपेण, पश्चिमबङ्गे पौषसंक्रान्तिरूपेण आचर्यते।