Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

निर्वाचनम् अर्थात् वाद-प्रतिवाद-आक्षेप-प्रत्याक्षेपानाम् उत्सवः । कोंग्रेसदलद्वारा ’चोकीदार चोर है’ सूत्रं प्रसारितं तस्य प्रत्युत्तरत्वेन भाजपादलेन ’मैं भी चोकीदार’ इति सूत्रं प्रचारप्रसारमाध्यमेषु प्रसारितम्। नरेन्द्रमोदी समेत्य  अन्यनेतृभिः स्वस्य ट्वीटर-एकाउन्ट द्वारा ’मौं भी चोकीदार’ इति सूत्रं स्थापितम्। अग्रे तस्य प्रत्युत्तरत्वेन कोंग्रेसदले बालनेत्रा हार्दिकपटेलेन स्वस्य ट्वीटरलेखायां ’बेरोजगार’ इति स्थापितम् । एतेन अधुना ’चोकीदार’ विरुद्धं ’बेरोजगार’ इति विषयः चर्चायामागतः । कोंग्रेसदलप्रवेशकारणात् सः ’बेरोजगार’ इति जातः इति हास्यकणिका अपि प्रसरिता जाता ।  कतिपयवर्षेभ्यः पूर्वं सामान्यं जीवनं यापयन् हार्दिकः विवाहोत्सवे लक्षशः रूप्यकाणां व्ययं कृतवान् अस्ति। इदानीं महार्घयानेन भ्रमन् सः स्वरक्षायै स्वधनेन आरक्षकान् अपि नियोजितवान् अस्ति । चतुर्भ्यः वर्षेभ्यः एव एतस्य ’बेरोजगार’ जनस्य धनागमः सर्वैः दृष्टमेव अस्ति। पूर्वं कदापि निर्वाचने भागं न वहिष्यति इति प्रतिज्ञां कृतवान् हार्दिकः कोंग्रेसप्रवेशद्वारा लोकसभानिर्वाचने भागं वहिष्यति इति उद्घोषितवान् अस्ति। एतैः कारणैः सः चर्चाकेन्द्रम् अपि जातः ।

अद्यतनवार्ता

भारतम्

विश्वम्