Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

महाराष्ट्रे लोकसभानिर्वाचनानन्तरं अद्य विधानपरिषद: निर्वाचनस्य मतदानं जातमासीत् यस्मिन् महाविकास-अघाडी इत्यस्य सहयोगिदलेभ्य: महान् आघातः अनुभूत:। अस्मिन् निर्वाचने ११ स्थानानां कृते आयोजिते निर्वाचने भारतीयजनतादलेन पञ्च स्थानानि, शिंदेशिवसेनया, अजितस्य रा.कां.पा.द्वारा च द्वे-द्वे स्थाने, एमवीएतः कोंग्रेस-शिवसेना यूबीटी च एकैकं स्थानं प्राप्तवन्त:।

निर्वाचने कोंग्रेसद्वारा अकल्पनीय: आघातः अनुभूत: यतः कोंग्रेसपक्षस्य ७-८ विधायकाः पारमतदानं कृत्वा दलस्य मतानि विभाजितवन्तः। अपरपक्षे शरदपवारस्य दल: अजीतपवारस्य राकांपाविधायकानां मतं प्राप्तुं असफलः अभवत् तथा च उद्धवठाकरे इत्यस्य यूबीटीपक्षः एकनाथशिण्डेशिवसेनाविधायकानां मतं प्राप्तुं असफलः अभवत्।

अद्यतनवार्ता

भारतम्

विश्वम्