कर्नाटक-महाराष्ट्रयोः बसविवादः वर्धमान: अस्ति। राजनैतिक वक्तव्यानि प्रसार्यन्ते। मङ्गलवासरे महाराष्ट्रस्य परिवहनमन्त्री प्रताप-सारनायकः महाराष्ट्रराज्यपरिवहननिगमस्य (MSRTC) मार्शल इत्यस्य नियुक्तिविषये चर्चां कृतवान्। सः अवदत्- मराठी अस्माकं गौरवम् अस्ति, अस्माभिः अस्माकं यात्रिकाणां सुरक्षायाः पालनं कर्तव्यम्। महाराष्ट्रः स्वस्य गर्वम् अनुभवति। यदि समीपस्थराज्यस्य जनाः अस्माकं जनान् तर्जयन्ति तर्हि वयं तत् न सहेम। सः अवदत्- राज्यमन्त्रिमण्डलस्य सभायां अपि अस्य विषयस्य चर्चा भविष्यति। राज्यद्वयस्य मध्ये बससेवायाः समाप्तेः कारणेन यात्रिकाः असुविधायाः सामनां कुर्वन्ति। परिवहनविभागस्य अधिकारिणः कर्णाटकस्य अधिकारिभिः स वार्तालापं कुर्वन्ति। महाराष्ट्रस्य गृहराज्यमन्त्री योगेशकदमः अवदत् यत् बसयात्रिकाणां सुरक्षाप्रदानं कर्णाटकसर्वकारस्य अपि दायित्वम् अस्ति। यदि ते तथा न कुर्वन्ति तर्हि महाराष्ट्रसर्वकारः सुरक्षां प्रदास्यति। इदानीं कर्णाटकस्य परिवहनमन्त्री रामलिंग रेड्डी इत्यनेन उक्तं यत्, ये कर्मचारिण: उपरि आक्रमणं कृतवन्तः तेषां विरुद्धं गूण्डा-अधिनियमस्य अन्तर्गतं कार्यवाही भविष्यति।