महाराष्ट्रविधानसभानिर्वाचनस्य परिणामस्य घोषणायाः ७ दिवसाः व्यतीताः। भाजपा-शिवसेना-रा.कां.पा अर्थात् महायुतिद्वारा २८८ आसनेभ्य: २३० आसनेषु विजय: प्राप्त:, परन्तु अधुना यावत् मुख्यमन्त्रिण: नाम्न: कृते अस्पष्टता अस्ति। एतस्यां परिस्थितौ अजीतपवारेण उक्तं यत् महाराष्ट्रे मुख्यमन्त्री केवलं भा.ज.पक्षस्य एव भविष्यति। दिल्लीनगरे महायुतिसमागमे एषः निर्णयः कृतः। शिवसेनाया:, राष्ट्रियकोंग्रेसपक्षस्य च उपमुख्यमन्त्रिणौ भविष्यत:। सः अवदत्- एतत् प्रथमवारं न यत् सर्वकारस्य निर्माणे विलम्बः जातः। १९९९ तमे वर्षे सर्वकारस्य निर्माणाय एकमासः यावत् समयः अभवत्।