महाकुम्भस्य प्रथमे अमृत(राजकीय)स्नाने मंगलवासरे ३.५ कोटिभक्ताः सङ्गमे अवगाहनं कृतवन्त:। अमृतस्नानं प्रातः ६ वादने आरभ्य सायं ६ वादने समाप्तम्। अस्मिन् काले जूना-अखाडासहिता: सर्वे १३ अखाडासाधव: अमृतस्नानं कृतवन्तः। स्नानं कृत्वा जनाः प्रयागराजात् प्रत्यागमनम् आरब्धवन्त:। मार्गेषु प्रचण्डजनसमूहः दृश्यते। प्रयागराजरेलस्थानके पादं स्थापयितुं स्थानं नास्ति। सभागृहे जनाः निरुद्धाः सन्ति। सोमवासरात् अधुना यावत् हृदयघातेन चत्वारः जनाः मृताः। प्रयागराजे आश्रयस्थानानि जनै: पूर्णानि सन्ति। आश्रयं न प्राप्तवन्त: जना: रात्रौ मार्गेषु एव स्वशिबिराणि स्थापितवन्तः। दिनद्वये आहत्य सङ्गमे ५.१५ कोटिजनाः स्नानं कृतवन्तः।