Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रयागराजनगरे आयोजिते महाकुम्भे दुर्घटनानां सूचनाः निरन्तरं वर्धन्ते। सम्मर्ददुर्घटनाया: अनन्तरं अधुना पुनः महाकुम्भे अग्निप्रकोपस्य सूचनाः प्राप्यन्ते। अस्मिन् समये संगमस्य तटे स्थिते सेक्टर् १८ इत्यस्मिन् पटमण्डपा: दग्धाः इति सूचना प्राप्ता अस्ति। घटनायाः सूचनाप्राप्तमात्रेण अग्निशामकदलस्य वाहनानि घटनास्थलं प्राप्तवन्तः ।

पत्रकारैः सह सम्भाषणं कुर्वन् एकः पुलिस-अधिकारी अवदत् यत् अग्निः प्रज्वलितः, कतिपयेषु निमेषेषु एव नियन्त्रणे आगतव:। प्राणहानिः न अभवत् । अग्निशामकदलस्य विशेषदलः अग्निस्य कारणं किम् इति ज्ञास्यति।

अद्यतनवार्ता

भारतम्

विश्वम्