Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य ७४तमः गणतन्त्रदिवसः अस्ति । कर्तव्यपथे ध्वजप्रचालयनस्यानन्तरं गणतन्त्रदिवसस्य पथसञ्चलनम् कृतिप्रदर्शनञ्च आरब्धम्।  राष्ट्रपति द्रौपदी मुर्मू इत्यनेन सह मुख्यातिथिः अब्देल फत्ताह अल-सीसी अपि आसीत्। मुख्यातिथिः मिस्रदेशस्य राष्ट्रपतिः अस्ति मिस्त्रस्य १२० सदस्यीयः सैन्यदलः अपि पथसञ्चलन-कार्यक्रमे भागं गृहीतवान्। तदनन्तरं राष्ट्रगीतस्य आरम्भः अभवत् । एतस्मिन्नन्तरे प्रथमवारं भारतीयशतघ्नीद्वारा सम्माननं प्रकटीकृतः । इदानीं यावत् ब्रिटेनदेश-निर्मितैः शतघ्नीभिः आवन्दनं क्रियते स्म। अस्मिन् गणतन्त्रदिने सशस्त्रसेना स्वदेशीयशस्त्रप्रदर्शनं अकरोत्। अत्र स्वदेशीयानि शस्त्राणि यथा अर्जुनविचक्राणि, वज्रशतघ्नी, आकाशक्षेपणास्त्रप्रणालिः ब्रह्मोस्-क्षेपणी च कर्तव्यपथे दृश्यते स्म। सशस्त्रसेनायाः प्रदर्शनेषु महिलानां प्रभावः गौरवं वर्धयति स्म। प्रथमवारं गणतन्त्रदिने सीमासुरक्षाबलस्य (BSF) उष्ट्रदले महिलाधिकारिण्यः समाविष्टाः। सर्वेषां राज्यानां स्थानिक-कला-संस्कृतिप्रदशनानि प्रेक्षकाणां मनः हरन्ति स्म। प्रथमवारं मादकद्रव्यनियन्त्रणब्यूरो (NCB) इत्यस्य अवलोकनं दृष्टम्।

अद्यतनवार्ता

भारतम्

विश्वम्