Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

लोकसभानिर्वाचनानन्तरं सर्वकारस्य निर्माणार्थं प्रयत्नाः आरब्धाः। अस्मिन् सन्दर्भे बुधवासरे सायं ४ वादने प्रधानमन्त्रिनिवासस्थाने एनडीए-सङ्घस्य प्रथमा सभा अभवत्। मोदी होरायावत् चलितायां सभायां एनडीए इत्यस्य नेता निर्वाचितः। सभायां १६ दलानां २१ नेतारः उपस्थिताः आसन्। सूत्रानुसारं ७ जून दिनाङ्के एनडीए-सांसदानां समागमानन्तरं सर्वकारस्य निर्माणस्य प्रस्तावं राष्ट्रपतिं प्रति भविष्यति। राजनाथसिंहः, अमितशाहः, जेपी नड्डा च सर्वैः सहयोगिदलै: सह व्यक्तिगतं वार्तालापं कृत्वा नूतनसर्वकारस्य स्वरूपविषये चर्चां कृतवन्तः। इतरथा राष्ट्रपतिद्रौपदी मुर्मूः पीएम मोदी इत्यस्य त्यागपत्रस्य, मन्त्रिमण्डलस्य विघटनस्य अनुशंसायाः च अनन्तरं लोकसभाया: विघटनं कृतवती। सूत्रानुसारं टीडीपीद्वारा ६ मन्त्रालयैः सह अध्यक्षपदस्य आग्रह: कृत:। तथैव जदयूद्वारा ३ मन्त्रालया:, चिरागद्वारा २ (एकं मन्त्रिमण्डलं, एकः स्वतन्त्रः प्रभारः),  मान्झीद्वारा एकस्य, शिंदेद्वारा २ (एकं मन्त्रिमण्डलं, एकः स्वतन्त्रप्रभारः) मन्त्रालयानाम् आग्रहः कृतः। तथैव जयन्तेन अनुप्रियया अपि मन्त्रिपदं काङ्क्षितम् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्