हाफिजसईदस्य निकटस्थतम:, भारतस्य शत्रुः; लश्कर-ए-तौईबा-आतङ्कवादी च अबूकतालः पाकिस्ताने शनिवासरे सायंकाले आक्रमणे मृतः। सः भारते जातानां नैकेषाम् आतङ्कवादि-आक्रमणानां सूत्रधार: आसीत्। एनआइए इत्यनेन तस्य विरुद्धं आरोपपत्रमपि पञ्जीकृतमासीत्। समाचारानुसारं यदा शनिवासरे सायं पाकिस्तानस्य झेलुम्-नगरे अबू-कतालस्य उपरि आक्रमणं जातम् तदा आतङ्कवादी हाफिज-सईदः अपि तस्य समीपे उपस्थितः आसीत्। अस्याः घटनायाः अनन्तरं हाफिज सईदः अदृश्यः अस्ति। आतङ्कवादी अबू कतालः हाफिजसईदस्य अतीव समीपस्थः इति मन्यते स्म। मुम्बई-आक्रमणानां सूत्रधार: हाफिजः आसीत्।