देहल्या: उपराज्यपालेन वि. के. सक्सेना इत्यनेन अद्य मुख्यमन्त्रिण्यै आतिश्यै पत्रं लिखित्वा आतिश्य्या: प्रशंसां कुर्वन् केजरीवालं दर्पणदर्शनकारितम्। यत्र तेनोक्तं यत् पूर्वमुख्यमन्त्रिणा सार्वजनिकरूपेण भवतीं अस्थायिमुख्यमन्त्रीत्वेन प्रतिपादितवान् तत् नितरां अयोग्यमस्ति। अपमानमिदं न केवलं भवत्या:, अपि तु राष्ट्रपते:, तस्या: प्रतिनिधित्वेन मम च अपमानमस्ति। २०२५ नूतनवर्षस्य शुभाशंसां यच्छन् तेनोक्तं यत् अधुना यावत् मम सार्धद्विवर्षस्य कार्यकाले अहं पदस्थाने उपविष्टस्य प्रथमवारं मुख्यमन्त्रिणः कार्यं दृष्टवान्। यदा भवतः पूर्वमुख्यमन्त्री सर्वकारस्य एकः विभागः नासीत् न च सञ्चिकासु हस्ताक्षरं अपि कृतवान्। भवती अनेकविभागानां प्रभारं स्वीकृत्य प्रशासनस्य विविधविषयेषु कार्यं कर्तुं प्रयतितवती आसीत्।