Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

आमआदमीपक्षस्य प्रमुखस्य अरविन्द केजरीवालस्य कारावासत: मुक्तिः हरियाणानिर्वाचनयुद्धे आपदलस्य महान्तं लाभं दातुं शक्नोति। तस्य मुक्तिकारणात् कार्यकर्तृषु उत्साह: प्रसरित: अस्ति। अपरपक्षे कोंग्रेसस्य कृते राजनैतिकदृष्ट्या हानि: भवितुं शक्नोति। सत्ताधारिण: भारतीयजनतापक्षस्य कृते लाभप्रदः च सिद्धः भवितुम् अर्हति। कोंग्रेस-भाजप-दलयो: अपि नैके असन्तुष्टा: स्वदलं त्यक्तवन्त: इत्यपि तयो: कृते चिन्ताया: विषय: अस्ति। आपदलस्य अपि हरियाणा-पञ्जाबराज्ययो: जलविवादप्रकरणे स्पष्टं मतं न स्वीकृत्य उभयत्र तत्तत् राज्यस्य लाभस्य विषये वदति इति प्रजा जानाति एव। 

अद्यतनवार्ता

भारतम्

विश्वम्