Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

आदमीपक्षस्य राष्ट्रियसंयोजकः दिल्लीनगरस्य पूर्वमुख्यमन्त्री च अरविन्द केजरीवालः “हरियाणासर्वकारेण यमुनानद्याः जलं विषयुक्तं कृतम्। इति आरोपं कृतवान्। अधुना केजरीवालाय स्वस्य आरोपार्थं प्रमाणानि प्रस्तोतुं केन्द्रीयनिर्वाचनायोगेन निर्देशः दत्तः। उत्तरं दातुं बुधवासरे (२९ जनवरी २०२५) रात्रौ ८ वादनपर्यन्तं समयः दत्तः अस्ति। अरविन्द केजरीवालः आरोपितवान् यत् हरियाणासर्वकारः औद्योगिकअवकरान् यमुनायां प्रवाहयति, येन देहल्याः जलं प्रदूषितं भवति। एतस्य वक्तव्यस्य अनन्तरं भाजप-आपदलयोः मध्ये वाक्युद्धम् आरब्धम् अस्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्