Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

विदेशमन्त्रालयेन गुरुवासरे उक्तं यत् काश्मीरप्रदेश: भारतस्य भागः अस्ति, सदैव भारतस्य भागः भविष्यति। कस्यचित् वचनस्य आधारेण अत्र परिवर्तनं भवितुं न अर्हति। विदेशमन्त्रालयस्य प्रतिक्रिया पाकिस्तानस्य प्रधानमन्त्रिण: शेहबाजशरीफस्य चीनप्रधानमन्त्रिण: च संयुक्तवक्तव्यस्य प्रतिक्रियारूपेण अभवत्, यस्मिन् ते संयुक्तराष्ट्रसङ्घस्य चार्टर्-अन्तर्गतं कश्मीर-प्रकरणस्य समाधानस्य आह्वानं कृतवन्तः। विदेशमन्त्रालयस्य प्रवक्ता धीरजयसवालः अवदत्- 'कश्मीरविषये भवन्तः अस्माकं स्थितिं जानन्ति। काश्मीरप्रदेश: अस्माकमस्ति। अस्माकमेव स्थास्यति। 

अद्यतनवार्ता

भारतम्

विश्वम्