मङ्गलवासरे कर्नाटकस्य बेलगावीनगरे आरक्षणस्य आग्रहं कृत्वा लिङ्गायतपञ्चमसालीसमुदायस्य प्रचलन् विरोधः हिंसकः अभवत्। समुदायस्य धार्मिकप्रमुखस्य बसवजय मृत्युञ्जयस्वामीजी इत्यस्य नेतृत्वे विरोधं कुर्वतां जनानां उपरि आरक्षकदलेन शक्तिप्रयोग: कृत: कथ्यते यत् आन्दोलनकारिणः आरक्षकदलेन स्थापितानि पथावरोधानि भङ्गयित्वा विधानसभां प्रति गन्तुं प्रयतन्ते स्म। इदानीं लिंगायतपञ्चमसालीसमुदायस्य जनानां सुरक्षाकर्मचारिणां च मध्ये संघर्षस्य आरम्भ: जात:।