Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

सर्वोच्चन्यायालयेन कावडयात्रामार्गे स्थितानां आपणानां आपणिकै: स्वाभिज्ञानं प्रकाशयितुं कृतस्य आदेशस्य विरुद्धं अन्तरिमनिरोधः आदिष्ट:। न्यायालयेन सोमवासरे जुलैमासस्य २२ दिनाङ्के उक्तं यत् आपणिका: स्वपरिचयं प्रकाशयितुं न अर्हन्ति। विश्रामगृहस्वामिन: वक्तुं शक्नुवन्ति यत् ते कीदृशं भोजनं परिवेक्ष्यति अर्थात् शाकाहारी वा अशाकाहारी वा। परन्तु तेषां नामलेखनार्थं बाध्यता न कर्तव्या। एसोसिएशन फोर प्रोटेक्शन आफ् सिविल राइट्स् इति संस्थया २० जुलै दिनाङ्के सर्वोच्चन्यायालये अस्य विरुद्धं याचिका प्रस्तुता आसीत् ।

अद्यतनवार्ता

भारतम्

विश्वम्