Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

वस्तुतः दिल्लीमद्यनीतिभ्रष्टाचारप्रकरणे सर्वोच्चन्यायालयेन तेलङ्गानाराज्यस्य पूर्वमुख्यमन्त्रिण: केसीआर इत्यस्य पुत्र्यै के. कवितायै प्रतिभूति: दत्ता। प्रकरणे‍ऽस्मिन् रेवन्तेन उक्तमासीत् यत् एतत् बीआरएस-भाजपयोः मध्ये सन्धिकारणात् जातम् अस्ति। 

अस्मिन् विषये न्यायाधीशस्य बी.आर.गवई इत्यस्य खण्डपीठेन कथितं यत् “किं भवान् जानाति यत् रेवंतेन किमुक्तम्? प्रथमं वर्तमानपत्रेषु पठतु। न्यायालयं राजनैतिकयुद्धे मा कर्षयन्तु। न्यायालयः नेतॄन् पृष्ट्वा निर्णयान् न करोति। एतादृशानि वचनानि जनानां मनसि आशङ्कां जनयन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्