कतारदेशस्य न्यायालयेन ८ पूर्वभारतीयसैनिकेभ्य: मृत्युदण्डः दत्तः। एते सर्वे भारतीयाः एकवर्षाधिकं यावत् निग्रहे स्थापिताः आसन्। न्यायालयस्य निर्णये भारतसर्वकारेण आश्चर्यं प्रकटितम्। अस्मिन् विषये भारतीयविदेशमन्त्रालयेन उक्तं यत् वयं विस्तृतनिर्णयस्य प्रतीक्षां कुर्मः तदधारेण विधिविकल्पानां अन्वेषणं भविष्यति।