Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

चीनदेशस्य राष्ट्रपतिः शी जिनपिङ्गस्य आघातः जातः इति प्रसरितवार्तया चीनस्य सामाजिकमाध्यमेषु बहु चर्चा जायते। सामाजिकमाध्यमेषु चर्चायाः अनुसारं राष्ट्रपतिः शी जिनपिङ्गः सीसीपीमेलन समये आघातं प्राप्तवान्। यद्यपि सम्प्रति अस्मिन् विषये आधिकारिकपुष्टिः नास्ति तथापि एतया वार्तया राजनैतिककोलाहल: समुत्पन्न:। 

सीसीपी-मेलनं चीनराजनीतौ अतीव महत्त्वपूर्णा इति मन्यते। पञ्चवर्षेषु एकवारं आयोजिते अस्मिन् सत्रे चीनस्य भविष्यस्य दिशानिर्णयः भवति। सोमवासरे आरब्धा सीसीपी-समागमः गुरुवासरे समाप्तः भवितुम् अर्हति। चीनस्य अर्थव्यवस्थायां पञ्चत्रिमासिकेषु सर्वाधिका दुर्गतिः अभवत्, येन चीनदेशस्य राष्ट्रपति: खिन्न: अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्