Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

रूस-युक्रेनयोः युद्धस्य अनन्तरं इजरायलदेशस्य प्रतिशोधः इरानदेशं युद्धाय प्रेरयति, इजरायल-ईरान-देशयोः संघर्ष: च विश्वं युद्धोन्मुखं नयति। एतयोः देशयोः मध्ये युद्धं विश्वं द्विधा विभक्तुं शक्नोति। भारतस्य विदेशमन्त्री एस. जयशङ्करः विश्वे निरन्तरं यत् भयंकरं चित्रं उद्भवति तस्मिन् विषये चिन्ताम् प्रकटितवान्। जयशङ्करः मंगलवासरे एकस्मिन् कार्यक्रमे उक्तवान् यत् युक्रेनरूसयोः युद्धं सार्धद्विवर्षेभ्य: प्रचलदस्ति। इदानीं मध्यपूर्वे दक्षिणपूर्व एशियाक्षेत्रे च सैन्यसंघर्ष:, आर्थिकसमस्या:, जलवायुपरिवर्तनस्य घटनाः च अत्यन्तं भयावहा: सन्ति। आगामिनि पञ्च दश वर्षाणि समग्रस्य विश्वस्य कृते समस्यानां भवितुं शक्नोति। 

अद्यतनवार्ता

भारतम्

विश्वम्