Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

जयरामरमेशः जूनमासस्य प्रथमदिनाङ्के सामाजिकमाध्यमे “X” इत्यत्र एकं सन्देशं प्रसारितवान् आसीत् यत्र उक्तं यत् गृहमन्त्री अद्य प्रातःकालादेव जनपदाधिकारीभिः सह दूरभाषेण वार्तालापं करोति। अधुना यावत् १५० अधिकारिभिः सह वार्ता कृता अस्ति। अधिकारिभ्य: मुक्ततया भर्त्सनप्रदानस्य एषः प्रयासः अत्यन्तं लज्जाजनकः अस्वीकार्यः च अस्ति। एतस्मिन् विषये निर्वाचनायोगेन सोमवासरे कोंग्रेससनेत्रे जयरामरमेशाय प्रमाणसहितं प्रत्युत्तरं दातुमुक्तम्  यत्र सर्वेषां १५० जनपदाधिकारिणां नामानि स्यु:। जयराम रमेशः ७ दिवसानां समयं याचितवान् आसीत्। एतत् निर्वाचनआयोगेन न अङ्गीकृतम्। ततः पूर्वं रविवासरे निर्वाचनायोगेन संज्ञानं गृहीतम् आसीत्। आयोगेन जयरामं प्रति पत्रं लिखितं यत् सः सायं ७ वादनपर्यन्तं स्वस्य प्रतिपादनस्य सम्बद्धं विवरणं दद्यात् इति। 

अद्यतनवार्ता

भारतम्

विश्वम्