जगन्नाथमन्दिरस्य गूढकोशस्य कुञ्चिका लुप्ता।
पुरीनगरस्य प्रसिद्धस्य जगन्नाथमन्दिरस्य कुञ्चिका लुप्ता जाता। प्रकरणेऽस्मिन् पुर्याः शङ्कराचार्येण राज्यस्य विपक्षिदलेन विरोधः प्रदर्शितः अस्ति। श्रीजगन्नाथमन्दिर-प्रबन्धनसमितेः सदस्येन रामचन्द्रदासेन उक्तं यत् समितेः अप्रैलमासस्य चतुर्थे दिनाङ्के सञ्जातायां गोष्ठ्यां एतत् चर्चितमासीत् । रत्नभण्डारस्य आंतरिककक्षस्य कुञ्चिका न प्राप्यते इति।