दिल्लीनगरस्य जन्तरमन्तर इति स्थाने ऑल इंडिया मुस्लिम पर्सनल लॉ बोर्ड इत्यस्य नेतृत्वे वक्फ-संशोधन-विधेयकस्य विरुद्धं विरोध-प्रदर्शनं प्रचलति। अस्य प्रदर्शनस्य अनेकेषां मुस्लिमसंघटनानां, विपक्षदलानां च समर्थनम् अपि प्राप्तम् अस्ति। वक्फ-विधेयकस्य विषये संयुक्तसंसदीयसमिते: अध्यक्ष: जगदम्बिका पालः अवदत् यत् वयं सर्वैः मुस्लिम-संघटनैः सह विषयेऽस्मिन् वार्तालापं कृतवन्तः, षट्+मासेषु ११८ सभाः अभवन्, अतः इदानीं किमर्थं विरोधाः क्रियन्ते?