Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

विश्वे विख्यातस्य रामसेतो: मानचित्रं महापरिश्रमेण इसरोवैज्ञानिकै: निर्मितमस्ति। वैज्ञानिकैः निर्मिते रामसेतो: मानचित्रे समुद्रतलात् ८ मीटर ऊर्ध्वं २९ कि.मी.दीर्घः पाषाणमग्नः सेतुः दृश्यते। रामसेतुः “एदम्स् सेतुः” इति अपि प्रसिद्धः limestone इति कर्करसेतुः अस्ति, यस्य लघुभागः जलपृष्ठस्य उपरि दृश्यते। सेतो: उपरि वनस्पतिः नास्ति। इसरो इत्यस्य राष्ट्रियदूरसंवेदनकेन्द्रस्य वैज्ञानिकाः 'साइन्टिफिक रिपोर्ट्स्' इति पत्रिकायां प्रकाशिते पत्रे अस्य मानचित्रस्य विषये विस्तृतं विवरणं दत्तवन्तः। रामसेतुः भारतीयरामेश्वरद्वीपे धनुश्कोटीनगरस्य दक्षिणपूर्वबिन्दुतः श्रीलङ्कादेशस्य मन्नारद्वीपे तलैमन्नारस्य वायव्य-अग्रभागपर्यन्तं विस्तृतः अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्