“मुसलमानानां कृते निर्मितः शरीया-नियमः तेषां जीवनस्य आधारः अस्ति । अस्मिन् नियमे राजनैतिकदलानां अस्तित्वं नास्ति।” अगस्तमासस्य १६ दिनाङ्के अफगानिस्तानस्य न्यायमन्त्री अब्दुलहकीमशरेई इत्यनेन एतत् वक्तव्यं दत्तम् । तालिबान्-सङ्घस्य मतेन राजनैतिकदलानां कारणेन विभाजनस्य सम्भावना वर्धते, यत् देशस्य विकासाय योग्यं नास्ति ।