Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

चलचित्रोद्योगे केचन तादृशाः सन्ति ये कृतभूरिपरिश्रमाः स्वनामधन्याः जाताः, यै: शुन्यतः आरम्भः कृतः, विश्वफलके च चिरस्थायि स्मरणं प्रतिष्ठापितम् । तेषु एकः इरफानखानः ।

वर्षद्वयात् सः कर्करोगपीडितः आसीत् । चिकित्सार्थं तस्य विदेशगमनमपि भवति स्म । एतस्यां परिस्थितौ अपि तेन अंग्रेजी मीडियम इति चलचित्रस्य अवशष्टं कार्यं पूर्णं कृतम् । एकस्मिन् कार्यक्रमे तेन उक्तमपि – अद्याहं भवद्भिः साकं अस्मि नास्मि अपि, मम प्रतीक्षा कुर्वन्तु । इति अस्य अन्तिमः सन्देशः । कदाचित् मृत्योः पूर्वाभासकारणादेव इयमुक्तिः । 

मङ्गलवासरे कोलोन इन्फेक्शन इति उदर-सङ्क्रमणात् सोमवासरे मुम्बईनगरस्य कोकिलाबेन-चिकित्सालये सः आनीतः । तत्र दृढचिकित्साविभागे एव तस्य मृत्युः अभवत् ।

इरफारनस्य जन्म १९६७तमे वर्षे जनवरी मासस्य सप्तमे दिनाङ्के अभवत् । तस्य पितुः यानचक्राणां व्यवसायः आसीत् । यदा तस्य अनुस्नातकस्य पठनं चलति स्म तदैव एन.एस.डी. इति राष्ट्रिय-नाट्य-विद्यालयतः सः शिष्यवृत्तिं प्राप्तवान् । १९८४ तमे वर्षे सः नाट्यविद्यालयं प्रविष्टवान् । पठनानतरं तेन तत्रैव देहल्यां नाट्यवृत्तिः आरब्धा ।

देहलीतः सः मुम्बईनगरीं मायानगरीमागत्य चाणक्य, भारत एक खोज, सारा जहा हमारा, बनेगी अपनी बात, चन्द्रकांता, श्रीकांत इत्यादिषु धारावाहिकेषु अभिनयः कृतः ।

चलचित्रेषु तस्य प्रथमं चलचित्रं सलाम बोम्बे आसीत् । तदनन्तरं तेन एक डॉक्टर की मौत इति चलचित्रे अभिनयः कृतः । समीक्षकैः श्लाघितः सः द वोरियर, मकबूल, रोग, हासिल इत्यादिषु चलचित्रेषु अभिनयं कृत्वा फिल्मफेयर पारितोषिकमपि प्राप्तवान् । स्लमडोगमिलिनेयर इत्यत्र अभिनयं कृत्वा सः होलिवुड-चलचित्रेषु अपि स्वाभिनयेन जनान् सन्तोषितवान् ।

पानसिंहतोमर चलचित्राय सः निशनल एवोर्ड अपि च पद्मश्री अपि प्राप्तवान् सः ।

श्रद्धाञ्जलिः

अद्यतनवार्ता

भारतम्

विश्वम्