भारतीयक्रिकेटदल: कस्यामपि परिस्थितौ चॅम्पियन्स् ट्राफी क्रीडितुं पाकिस्तानदेशं न गमिष्यति। बीसीसीआई सूत्रै: उक्तं यत्, यदि पाकिस्तानक्रिकेट् बोर्ड विशेषव्यवस्थायै सहमतः न भवति तर्हि टीम इण्डिया प्रतियोगितायां भागं न स्वीकरिष्यति। यदि पीसीबी प्रतियोगितायाः आतिथ्यं न करोति तर्हि भारतं तस्य अपि आतिथ्यं कर्तुं सज्जः अस्ति। आईसीसी इत्यनेन नवम्बर् २९ दिनाङ्के सभा आहूता, यस्मिन् आयोजनस्थलस्य विषये अन्तिमनिर्णयः भविष्यति।
बीसीसीआई सूत्राणि अवदन् यत्, सर्वकारेण बीसीसीआई इत्यस्यै स्पष्टतया उक्तं यत् टीम इण्डिया चॅम्पियन्स् ट्राफी कृते पाकिस्तानं न गमिष्यति। सर्वकारेण बीसीसीआइ-संस्थायाः कृते उक्तं यत् सः स्वस्य तर्कं ICC-मध्ये दृढतया प्रस्तुतं करोतु। पाकिस्तानस्य स्थितिः, क्रीडकानां सुरक्षायाः महत्त्वं च वर्णयतु इति।