Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

विश्वविजेतु: भारतीयदलस्य सम्मानाय मुम्बईनगरस्य मरीनड्राइवत: वानखेडेस्टेटियमपर्यन्तं विजयसम्मानसञ्चलनस्य आयोजनं कृतमासीत्। प्रशंसकाः प्रातःकालादेव स्वस्य प्रियक्रीडकस्य दर्शनं प्राप्तुं प्रतीक्षां कुर्वन्त: आसन्। मार्गेषु जनाप्लाव:। दलाय अभिनन्दनं दातुं जलाप्लाव: न भूतो न भविष्यति इति दृश्यते। यत्र पादमपि स्थापयितुं स्थानं न आसीत् तत्र विविकपूर्णै: जनै: रुग्णवाहिन्यै अग्रे गन्तुं मार्ग: उद्घाटित: इति नितरां अभिनन्दनीयम्। मार्गमुभयत: विद्यमानेषु वृक्षेषु जना: दृश्यन्ते। वानखेडेक्रीडाङ्गणे रात्रौ नववादने राष्ट्रगीतस्य अनन्तरं सम्मानकार्यक्रम: आरब्धः। दलनायकेन रोहितशर्मणा जयस्तम्भ: राष्ट्राय समर्पित:। तेनोक्तं यत् विश्वचषक: मम कृते महत्त्वपूर्ण: आसीत् परन्तु मदपेक्षया भवतां क्रीडारसिकानां दर्शकानां कृते अधिक: महत्त्वपूर्ण: अस्ति। प्रशिक्षकेण राहुलद्रविडेनोक्तं यत् रोहितस्य कारणात् अहमत्र उपस्थित: तेन अहं वारित:।  दलस्य प्रेम्णः स्मरणं सदैव भविष्यति। अयं मम परिवार:। दर्शकेभ्य: उपस्थितेभ्य: प्रेक्षकेभ्य: च धन्यवादान् समर्पयन् विराटेनोक्तं यत् काल: अयं अविश्वसनीय: चिरस्मरणीय: च। जसप्रीत: विश्वस्य अष्टम: विस्मय: इति उक्त्वा करतालेन अभिनन्दनानि दत्तवान्। कार्यक्रमस्य अन्ते बी.सी.सी.आई.द्वारा दलाय १२५ कोटिरूप्यकाणां सम्मानधनराशे: धनादेशपत्रं प्रदत्तम्।

अद्यतनवार्ता

भारतम्

विश्वम्