अद्य २०२४ तमस्य वर्षस्य समाप्ति: अस्ति। वर्षान्ते अवकाशदिनेषु अपि च नववर्षे अपि बहवः जनाः यात्रां कर्तुं योजना: कुर्वन्ति। रेलयानेन यात्रां कर्तुं योजनां कुर्वतां जनानां कृते एषा वार्ता अतीव महत्त्वपूर्णा अस्ति। रेलविभागेन नीहारकारणात् बहूनि रेलयानानि निरस्तीकृतानि, केचन रेलमार्गाः परिवर्तिताः। शिशिरस्य दुस्सहशैत्यं पूर्वमेव प्रविष्टम् अस्ति। नववर्षस्य आरम्भात् पूर्वमपि बहुषु स्थानेषु वर्षाकारणात् तापमानं अध: गतमस्ति। अनेकेषु क्षेत्रेषु नीहारः प्रसृतः अस्ति। अत: अधुना पर्यटनगमनात् पूर्वं