भारतीयनौसेना आगामिषु १२ मासेषु १२ युद्धपोतान् प्राप्स्यति, येन समुद्रीयक्षेत्रे सघननिरीक्षणे अत्यधिकसहायता भविष्यति, सुरक्षाक्षेत्रे अपि अत्यन्तमावश्यकं भविष्यति। एतेषु १२ युद्धपोतेषु फ्रीगेट्, कार्वेट्, डेस्ट्रॉयर्स, सर्वेक्षणपोतानि च सन्ति । तेषां नौसेनायाम् समावेशेन हिन्दमहासागरक्षेत्रे (IOR) सुरक्षास्तरः वर्धिष्यते। अयं प्रकल्प: नौसेनाया: आधुनिकीकरणाय, वर्धनाय च महत्त्वपूर्ण: भविष्यति।
चित्रम् - प्रतीकात्मकम्