Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अष्टादश्या: लोकसभायाः प्रथमसत्रस्य आरम्भमात्रेण सदने भाषावैविध्यं दृष्टम्। वस्तुतः नवनिर्वाचिताः सांसदाः संस्कृत-हिन्दी-दोंगरी-बङ्गला-असमिया-उड़िया-आङ्ग्लभाषाप्रयोगेण शपथं स्वीकृतवन्तः। प्रायश: अधिकांश: सांसदा: हिन्दीभाषया एव शपथं स्वीकृतवन्त:। 

ओडिशाराज्यस्य सम्बलपुरसांसदः, केन्द्रीय-शिक्षामन्त्री च धर्मेन्द्र-प्रधानः उड़ियाभाषया, विद्युत्-नवीकरणीय-ऊर्जा राज्यमन्त्री श्रीपाद नायकः संस्कृतभाषया, केन्द्रीयराज्यमन्त्री सुकान्त: मजुमदारः बङ्गलाभाषया, पुणेसांसद: केन्द्रीयराज्यमन्त्री मुरलीधरमोहोल मराठीभाषया, जम्मूकश्मीरस्य केन्द्रीय: मन्त्री जितेन्द्रसिंह: डोंगरीभाषया, 

केन्द्रीयमन्त्री सर्वानन्दसोनोवालः असमियाभाषया, केन्द्रीयमन्त्री राममोहननायडुः तेलुगुभाषया, केन्द्रीयमन्त्री एच.डी.कुमारस्वामी तथा प्रल्हाद जोशी कन्नडभाषया शपथग्रहणं कृतवन्त:।

अद्यतनवार्ता

भारतम्

विश्वम्