रशियादेशस्य लूना इति चन्द्रयानस्य निष्फलताया: अनन्तरं अधुना समग्रस्य विश्वस्य दृष्टि: भारतस्य चन्द्रयानस्य अवरोहणस्य उपरि स्थिता अस्ति। श्व: सायं चद्रयानस्य चन्द्रधरायां अवतरणं भविष्यति। अस्यां स्थितौ अस्माकं मानवानां जीवने चन्द्रमस: योगदानं ज्ञातव्यमेव। भारते धार्मिकपूजाविधे: पूर्वं सङ्कल्प: क्रियते - “ॐ विष्णुर्विष्णुर्विष्णुः. . . . .कलियुगे . . . . अमुक-मासे अमुक-पक्षे अमुक-तिथौ अमुक-वासरान्वितायाम् अमुक-नक्षत्रे अमुक-राशिस्थिते सूर्ये अमुकामुक-राशिस्थितेषु चन्द्र-भौम-बुध-गुरु-शुक्र-शनिषु सत्सु शुभे योगे शुभकरणे . . . करिष्ये। एतस्य वैज्ञानिकं सामाजिकं सांस्कृतिकं च महत्त्वं विद्यते। वैदिककालादेव खगोलविज्ञाने अस्माकं ऋषिवैज्ञानिकै: महत्त्वपूर्णा: सिद्धान्ता: प्रतिपादिता: आसन्। वैदिकशब्द: ’भूगोलम्’ स्वयमेव पृथिव्या: आकारं प्रतिपादयति। पौराणिक-नवग्रहस्तोत्रेषु प्रत्येकं ग्रहस्य वैशिष्ट्यं लाक्षणिकता: च वर्णिता: सन्ति। ऋग्वेदस्य शतपथब्राह्मणस्य चानुसारं कालगणनाया: महत्त्वपूर्ण: आधार: चन्द्र: अस्ति। समयज्ञानस्य यदा किमपि साधनं न आसीत् तदा ऋषिभि: चन्द्राधारितयो: पक्षद्वययो: पूर्णिमामावस्ययो: ज्ञानं प्रदत्तम्। चीनदेशस्य अरबदेशस्य कालगणना भारतस्य कालगणनाया: आधारेण रचिता अस्ति। अद्यापि आधुनिकवासरणां नामानि भारतीयवासरनाम्नाम् आधारेण रचितानि सन्ति यथा रविवासर: sunday, सोम(चन्द्र)वासर: Monday इति। “इंडिया- व्हाट कैन इट टीच अस” इति जर्मनविदुष: मेक्समूलर इत्यस्य पुस्तकानुसारं भारतेन एव नक्षत्रमण्डलानि, अवकाश:, खगोलविज्ञानम् इत्यादि विषये विश्वजना: बोधिता:। चन्द्रस्य आधारेण रचितस्य आधुनिकी भारतीयदिनदर्शिका रचिता अस्ति। तस्य आधारेण एव चीनस्य लूनर, दक्षिण-अमेरिकादेशस्य क्वीपु, अरबस्य हिजरी, मेसो-अमेरिकाया: माया, फ्रांसदेशस्य सेल्टिक इत्यादिनाम् रचना जाता अस्ति। एवं अस्माभि: आधुनिकवैज्ञानिकसफलताया: पृष्ठत: प्राचीनभारतीयवैज्ञानिकचिन्तनमपि मनसि निधाय गौरवानुभूति: करणीया।