Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतीयदलः अद्य चॅम्पियन्स् ट्राफी इति एकदिवसीय-अन्ताराष्ट्रिय-क्रिकेट्क्रीडायां द्वादशवर्षाणां वनवासस्यानन्तरं विजेता अभवत्। न्युजीलैण्डदेशेन ७ स्तोभानामनतरं २५१ धावनाङ्कान् प्राप्य भारतीयदलाय २५२ धावनाङ्कानां लक्ष्यं दत्तमासीत्। तस्य प्रत्युत्तररूपेण भारतीयदल: ४ स्तोभानामनन्तरं २५४ धावकाङ्कान् प्राप्य विजेता अभवत्। पूर्वं २०१३ तमे वर्षे भारतीयदलेन एम.एस.धोनी इत्यस्य नेतृत्वे चॅम्पियन्स् ट्राफी जिता आसीत्। भारतीयदलः अद्यावधि वारत्रयं चॅम्पियन्स्-ट्राफी इति स्पर्धायां विजेता अभवत्। एतेन सह सर्वाधिकधावनाङ्कानां विक्रम: अपि भारतीयदलेन लब्ध: अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्