रूसदेशात् ४०००० कोटिरूप्यकाणां प्रक्षेपास्त्रप्रणालीं क्रेष्यति भारतम्
अवकाशरक्षा-एस ४०० ट्रायम्फ इति प्रक्षेपास्त्रप्रणाल्याः कृते रूसदेशेन सह भारतस्य चर्चा अन्तिमे स्तबके अस्ति। प्रधानमन्त्रिणः नरेन्द्रमोदिनः रूसदेशस्य राष्ट्रपतिना व्लादमीरपुतिनेन सह अक्तूबरमासे नवदेहल्यां निर्धारितायाः गोष्ठ्याः पूर्वमेव एतस्मिन् हस्ताक्षरं भविष्यति।