इस्कॉन-धार्मिकनेतु: चिन्मयकृष्णदासप्रभो: ग्रहणेन बाङ्गलादेशे हिन्दुजनानाम् स्थितिविषये च शुक्रवासरे भारतीयविदेशमन्त्रालयेन वक्तव्यं दत्तम्। विदेशमन्त्रालयस्य प्रवक्ता रणधीरजयसवालः अवदत् यत् भारतेन बाङ्गलादेशे हिन्दुभिः अन्यैः अल्पसंख्याकै: च सह जायमाने व्यवहारे विरोधः प्रकटितः। जयसवालः अवदत् यत् वयं हिन्दुजनानाम् अन्येषां अल्पसंख्याकानां च सुरक्षायाः उत्तरदायित्वं बाङ्गलादेशसर्वकारेण ग्रहीतव्यम् इति वयं स्पष्टं वदाम:। अस्मिन् विषयः “सञ्चारमाध्यमै: अतिशयोक्तिः क्रियते” इति वदन् अन्तरिमसर्वकारः उत्तरदायित्वात् पलायनं कर्तुं न शक्नोति। विदेशमन्त्रालयेन चिन्मयप्रभो: न्यायपूर्णन्यायिकप्रक्रियायाः अन्तर्गतविचारः करणीयः इति अपि आग्रहः कृतः अस्ति ।