एशियाई-धनुर्विद्या-प्रतियोगितायां भारतेन त्रीणि स्वर्णपदकानि, आहत्य नव पदकानि च हस्तगतानि कृतानि।
बाङ्ग्लादेशस्य राजधान्यां ढाकायां चतुर्विंशतितः त्रिंशत्-नवम्बर पर्यन्तम् आयोजितायां एशियाई-धनुर्विद्या-प्रतियोगितायां भारतेन त्रीणि स्वर्णपदकानि अपि च अन्यानि षट् पदकानि जितानि। अस्याः प्रतियोगितायाः स्वर्णपदकविजेता आकाशः कांस्यपदकविजेत्री हिमानी च आगामिवर्षे अर्जेन्टिनादेशे आयोजयिष्यमाणायां यूथ-ओलंपिक्स इत्यत्र भारतस्य प्रातिनिधित्वं करिष्यतः।
1