Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतेन पहलगाम-आतङ्कवादि-आक्रमणेन सह पाकिस्तानस्य प्रत्यक्षसम्बन्ध: प्रमाणीकृत: अस्ति। अस्मिन् आक्रमणे पाकिस्तानस्य संलग्नतायाः पुष्टिं कृत्वा भारतेन विभिन्नदेशानां सर्वकारेभ्यः आवश्यकानि प्रमाणानि प्रेषितानि सन्ति। मीडिया-सञ्चारमाध्यमानां समाचारानुसारं भारतेन उक्तं यत् पहलगाम-आक्रमणे सम्बद्धानां आतङ्कवादिनां संज्ञानं कृतम् अस्ति। तथा च तेषां पाकिस्तानेन सह प्रत्यक्षसम्बन्धः अस्ति इति पुष्टिः कृता अस्ति। आवश्यकाः प्रत्यक्षदर्शिन:, गुप्तचरसंस्था:, विश्वसनीयसूचना: इत्येतेषामाधारेण प्रमाणानि दत्तानि। भारतसर्वकारेण प्रस्तुतैः प्रमाणैः ज्ञातं यत् न्यूनातिन्यूनं स्थानद्वये द रेजिस्टेंस फ्रंट इत्यस्य आतङ्कवादीसमूहस्य इलेक्ट्रॉनिकसाक्ष्यानि प्राप्तानि सन्ति। केचन आतङ्कवादिनः चिह्निताः सन्ति। ते पाकिस्तानदेशात् आगताः। किञ्चित्कालपूर्वं च प्रविष्टवन्त:। प्रत्यक्षदर्शिभिः अपि आक्रमणकारिणां उपस्थिते: पुष्टिः कृता अस्ति।

चित्रं - प्रतीकात्मकम्

अद्यतनवार्ता

भारतम्

विश्वम्