Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतस्य बलं समग्रं विश्वेन ज्ञायते। अस्य प्रमाणं अद्यतनप्रतिवेदने प्राप्तम् अस्ति। आस्ट्रेलियादेशस्य चिन्तनसमूहेन लोवी इत्यनेन अद्यैव घोषितस्य एशियाशक्तिसूचकाङ्कस्य प्रतिवेदनस्य क्रमाङ्कने अमेरिका-चीनयोः पश्चात् भारतं तृतीयः महाशक्तिमान् देशः अस्ति। अस्मिन् क्रमाङ्कने भारतं रूस-जापान-आदिदेशेभ्य: अग्रे गतवान्। अस्मिन् सूचकाङ्के भारतस्य गुणाङ्क: ३९.१ अस्ति, जापानदेशः तु ३८.९ अङ्कै: चतुर्थस्थाने अस्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्