Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

लोकसभानिर्वाचनपरिणामस्य घोषणापश्चात् I.N.D.I.सङ्घस्य रणनीत्याः निर्णयार्थं मल्लिकार्जुनस्य दिल्लीगृहे गोष्ठी आरब्धा अस्ति। सङ्घस्य विपक्षे उपवेशनं सर्वकारनिर्माणं वा इति सभायां निर्णयः भविष्यति।

सोनिया, राहुल: प्रियंका, शरदपवार: सुप्रियासुले, संजयराउत:, अखिलेशयादव:, तेजस्वीयादव:, स्टालिन:, चम्पाई इत्यादय: नेतार: अस्याम् उपस्थिता: सन्ति। वस्तुतः परिणामेषु संघ: आहत्य २३४ आसनानि प्राप्तवान् अस्ति। सर्वकारनिर्माणार्थं २७२ सांसदानां समर्थनस्य आवश्यकता वर्तते। एतादृश्यां परिस्थितौ बहुमतस्य कृते सहायकसांसदानाम् अन्वेषणम् आवश्यकं वर्तते।

अद्यतनवार्ता

भारतम्

विश्वम्