तालिबानसङ्घेन निगृहीत: अफगानिस्तानदेश: दिने दिने महिलानां अधिकारान् हरति। पूर्वं महिलानां शिक्षायां प्रतिबन्धः आसीत्, अधुना अन्ये आदेशा: अपि निर्गता: सन्ति। तालिबान्-सङ्घः अफगानिस्तानमहिलानां असर्वकारीयसंस्थासु कार्यं कर्तुं प्रतिबन्धं कृतवान् अस्ति। फलतः अफगानिस्तानदेशे विदेशेषु वा महिलाः संस्थासु कार्यं कर्तुं न शक्नुवन्ति। अन्य: आदेश: गृहाणां विषये अस्ति, उक्तं यत् गृहाणि एतादृशरीत्या सज्जीक्रियन्ते येन महिलाः गृहेभ्यः बहिः द्रष्टुं न शक्नुयु: तथा च तादृशानि वातायनानि न स्थापनीयानि। यदि स्वयंसेविसंस्था: महिलाधिकाराणां कृते स्वरं उत्थापयन्ति, तत् तालिबानसङ्घाय न रोचते। आधुनिके विज्ञानकाले विचाराणाम् अधोगति: देशं कुत्र नेष्यति ?